Patanjali's authoritative treatise on Yoga

 

Yog Sutra

 

With Sacred text and its Gujarati translation

<< HOME | ADHYATMA | AUDIO | BOOKS | BHAJANS | KAVITA RAMAYAN | MAHABHARAT | UPANISHAD | SARAL GITA | MORE >>

 

પાતંજલ યોગદર્શન
  Patanjali's Yoga Sutra  
< BACK

Kaivalya Pada

NEXT >

चतुर्थः कैवल्यपादः

[ Click on the verses to explore ]

. जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ।

२. जात्यन्तरपरिणामः प्रकृत्यापूरात् ।

. निमित्तम् अप्रयोजकं प्रकृतीनां । वरणभेदस्तु ततः क्षेत्रिकवत् ।

. निर्माणचित्तान्यस्मितामात्रात् ।

. प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ।

. तत्र ध्यानजम् अनाशयम् ।

. कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ।

. ततस्तद्विपाकानुगुणानाम् एवाभिव्यक्तिर्वासनानाम् ।

. जातिदेशकालव्यवहितानाम् अप्यानन्तर्यं । स्मृतिसंस्कारयोः एकरूपत्वात् ।

१०. तासाम् अनादित्वं चाशिषो नित्यत्वात् ।

११. हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ।

१२. अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् ।

१३. ते व्यक्तसूक्ष्मा गुणात्मानः ।

१४. परिणामैकत्वाद् वस्तुतत्त्वम् ।

१५. वस्तुसाम्ये चित्तभेदात् तयोर्विभक्तः पन्थाः ।

१६. न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ।

१७. तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ।

१८. सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ।

१९. न तत् स्वाभासंदृश्यत्वात् ।

२०. एकसमये चोभयानवधारणम् ।

२१. चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ।

२२. चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ।

२३. द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ।

२४. तदसंख्येयवासनाचित्रम् अपि परार्थं संहत्यकारित्वात् ।

२५. विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ।

२६. तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ।

२७. तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।

२८. हानम् एषां क्लेशवदुक्तम् ।

२९. प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः ।

३०. ततः क्लेशकर्मनिवृत्तिः ।

३१. तदा सर्वावरणमलापेतस्य ज्ञानस्याऽनन्त्याज्ज्ञेयम् अल्पम् ।

३२. ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् ।

३३. क्षणप्रतियोगी परिणामापरान्तनिग्रार्ह्यः क्रमः ।

३४. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिष्ठा वा चितिशक्तिरेति ।

इति पतञ्जलि विरचिते योगसूत्रे चतुर्थः कैवल्यपादः

 

 

| Home | Adhyatma | Shri Yogeshwarji | Maa Sarveshwari | SarvaMangal | Swargarohan |  Site Map | News |

|Audio/video| Books | Contacts | Download | FAQ | Feedback | Glossary | Guest Book | Links | Photo Gallery | Search | What's New? |

Copyright © 2002-2008 by Swargarohan, Danta Road, Ambaji, North Gujarat, INDIA.  All Rights reserved. See Disclaimer