Patanjali's authoritative treatise on Yoga

 

Yog Sutra

 

With Sacred text and its Gujarati translation

<< HOME | ADHYATMA | AUDIO | BOOKS | BHAJANS | KAVITA RAMAYAN | MAHABHARAT | UPANISHAD | SARAL GITA | MORE >>

 

પાતંજલ યોગદર્શન
  Patanjali's Yoga Sutra  
< BACK

Sadhan Pada

NEXT >

द्वितीयः साधनपादः

[ Click on the verses to explore ]

. तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।

२. समाधिभावनार्थः क्लेशतनूकरणार्थश्च

. अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः

. अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्

. अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।

. दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।

. सुखानुशयी रागः ।

. दुःखानुशयी द्वेषः ।

. स्वरसवाही विदुषोऽपि तथारूढो भिनिवेशः ।

१०. ते प्रतिप्रसवहेयाः सूक्ष्माः ।

११. ध्यानहेयास्तद्वृत्तयः ।

१२. क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।

१३. सति मूले तद्विपाको जात्यायुर्भोगाः ।

१४. ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ।

१५. परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः

१६. हेयं दुःखम् अनागतम् ।

१७. द्रष्टृदृश्ययोः संयोगो हेयहेतुः ।

१८. प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ।

१९. विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ।

२०. द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः

२१. तदर्थ एव दृश्यस्यात्मा ।

२२. कृतार्थं प्रति नष्टम् अप्यनष्टं तदन्यसाधारणत्वात् ।

२३. स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ।

२४. तस्य हेतुरविद्या ।

२५. तदभावात् संयोगाभावो हानं . तद्दृशेः कैवल्यम्

२६. विवेकख्यातिरविप्लवा हानोपायः ।

२७. तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।

२८. योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ।

२९. यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाव अङ्गानि ।

३०. अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः

३१. जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ।

३२. शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।

३३. वितर्कबाधने प्रतिपक्षभावनम् ।

३४. वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका

मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ।

३५. अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः

३६. सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।

३७. अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।

३८. ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ।

३९. अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ।

४०. शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः

४१. सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ।

४२. संतोषाद् अनुत्तमः सुखलाभः ।

४३. कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ।

४४. स्वाध्यायाद् इष्टदेवतासंप्रयोगः ।

४५. समाधिसिद्धिरीश्वरप्रणिधानात्

४६. स्थिरसुखम् आसनम् ।

४७. प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्

४८. ततो द्वन्द्वानभिघातः

४९. तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः

५०. बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः

५१. बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ।

५२. ततः क्षीयते प्रकाशावरणम् ।

५३. धारणासु च योग्यता मनसः ।

५४. स्वस्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।

५५. ततः परमा वश्यतेन्द्रियाणाम्

इति पतञ्जलि विरचिते योगसूत्रे द्वितीयः साधनपादः

 

 

| Home | Adhyatma | Shri Yogeshwarji | Maa Sarveshwari | SarvaMangal | Swargarohan |  Site Map | News |

|Audio/video| Books | Contacts | Download | FAQ | Feedback | Glossary | Guest Book | Links | Photo Gallery | Search | What's New? |

Copyright © 2002-2008 by Swargarohan, Danta Road, Ambaji, North Gujarat, INDIA.  All Rights reserved. See Disclaimer