Patanjali's authoritative treatise on Yoga
॥ Yog Sutra ॥
With Sacred text and its Gujarati translation
<< HOME | ADHYATMA | AUDIO | BOOKS | BHAJANS | KAVITA | RAMAYAN | MAHABHARAT | UPANISHAD | SARAL GITA | MORE >>
પાતંજલ યોગદર્શન
Vibhuti Pada
॥ तृतीयो विभूतिपादः ॥
[ Click on the verses to explore ]
०१. देशबन्धश्चित्तस्य धारणा ।
०२. तत्र प्रत्ययैकतानता ध्यानम् ।
०३. तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ।
०४. त्रयम् एकत्र संयमः ।
०५. तज्जयात् प्रज्ञाऽऽलोकः ।
०६. तस्य भूमिषु विनियोगः ।
०७. त्रयम् अन्तरङ्गं पूर्वेभ्यः ।
०८. तद् अपि बहिरङ्गं निर्बीजस्य ।
०९. व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ।
१०. तस्य प्रशान्तवाहिता संस्कारात् ।
११. सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ।
१२. ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ।
१३. एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।
१४. शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ।
१५. क्रमान्यत्वं परिणामान्यत्वे हेतुः ।
१६. परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ।
१७. शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरः । तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।
१८. संस्कारसाक्षत्करणात् पूर्वजातिज्ञानम् ।
१९. प्रत्ययस्य परचित्तज्ञानम् ।
२०. न च तत् सालम्बनं,तस्याविषयीभूतत्वात् ।
२१. कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ।
२२. एतेन शब्दाद्यन्तर्धानमुक्तम् सोपक्रमं निरुपक्रमं च कर्म ।
तत्संयमाद् अपरान्तज्ञानम्, अरिष्टेभ्यो वा ।
२३. मैत्र्यादिषु बलानि ।
२४. बलेषु हस्तिबलादीनि ।
२५. प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ।
२६. भुवनज्ञानं सूर्ये संयमात् ।
२७. चन्द्रे ताराव्यूहज्ञानम् ।
२८. ध्रुवे तद्गतिज्ञानम् ।
२९. नाभिचक्रे कायव्यूहज्ञानम् ।
३०. कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।
३१. कूर्मनाड्यां स्थैर्यम् ।
३२. मूर्धज्योतिषि सिद्धदर्शनम् ।
३३. प्रातिभाद् वा सर्वम् ।
३४. हृदये चित्तसंवित् ।
३५. सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः।
परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ।
३६. ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ।
३७. ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ।
३८. बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः ।
३९. उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ।
४०. समानजयात् प्रज्वलनम् ।
४१. श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ।
४२. कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश्चाकाशगमनम् ।
४३. बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ।
४४. स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।
४५. ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश्च ।
४६. रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ।
४७. ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ।
४८. ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ।
४९. सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ।
५०. तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ।
५१. स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः अनिष्टप्रसङ्गात् ।
५२. क्षणतत्क्रमयोः संयमादविवेकजं ज्ञानम् ।
५३. जातिलक्षणदेशैरन्यताऽनवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ।
५४. तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ।
५५. सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ।
॥ इति पतञ्जलि विरचिते योगसूत्रे तृतीयो विभूतिपादः ॥
| Home | Adhyatma | Shri Yogeshwarji | Maa Sarveshwari | SarvaMangal | Swargarohan | Site Map | News |
|Audio/video| Books | Contacts | Download | FAQ | Feedback | Glossary | Guest Book | Links | Photo Gallery | Search | What's New? |